Wednesday, 21 November 2012

श्रीकनकधारा स्तोत्रम्

अङ्गं हरे: पुलकभूषणमाश्रयन्ती 
भृङ्गाङगनेव मुकुलाभरणं तमालम् । 
अङ्गीकृताखिलविभूतिरपाङ्गलीला 
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ 

मुग्धा मुहुर्विदधती वदने मुरारेः 
प्रेमत्रपाप्रणिहितानि गतागतानि । 
माला दृशोर्मधुकरीव महोत्पले 
या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥ 

विश्वामरेन्द्रपदविभ्रमदानदक्ष- 
मानन्दहेतुरधिकं मुरविद्विषोsपि । 
ईषन्निषीदतु मयि क्षणमीक्षणार्ध- 
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥ 

आमीलिताक्षमधिगम्य मुदा मुकुन्द- 
मानन्दकन्दमनिषमनङ्गतन्त्रम् । 
आकेकरस्थितकनीनिकपक्ष्मनेत्रं 
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥ 

बाह्वन्तरे मधुजितः श्रितकौस्तुभे 
या हारावलीव हरिनीलमयी विभाति । 
कामप्रदा भगवतोsपि कटाक्षमाला 
कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥ 

कालाम्बुदालिललितोरसि कैटभारे- 
र्धाराधरे स्फुरति या तडिदङ्गनेव । 
मातुः समस्तजगतां महनीयमूर्ति- 
र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥ 

प्राप्तं पदं प्रथमतः किल यत्प्रभावान् 
माङ्गल्यभाजि मधुमाथिनी मन्मथेन । 
मय्यापतेत्तदिह मन्थरमीक्षणार्धं 
मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥ 

दद्याद् दयानुपवनो द्रविणाम्बुधारा- 
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । 
दुष्कर्मधर्ममपनीय चिराय दूरं 
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥ 

इष्टा विशिष्टमतयोऽपि यया दयार्द्र- 
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । 
दृष्टिः प्रह्रष्टकमलोदरदीप्तिरिष्टां 
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥ 

गीर्देवतेति गरुडध्वजसुन्दरीति 
शाकम्भरीति शशिशेखरवल्लभेति । 
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै 
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥ 

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै 
रत्यै नमोऽस्तु रमणीयगुणार्णवायै । 
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै 
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥ 

नमोऽस्तु नालीकनिभाननायै 
नमोऽस्तु दुग्धोदधिजन्मभूत्यै । 
नमोऽस्तु सोमामृतसोदरायै 
नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥ 

सम्पत्कराणि सकलेन्द्रियनन्दनानि 
साम्राज्यदानविभवानि सरोरुहाक्षि । 
त्वद्वन्दनानि दुरिताहरणोद्यातानि 
मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥ 

यत्कटाक्षसमुपासनाविधिः 
सेवकस्य सकलार्थसम्पदः । 
संतनोति वचनाङ्गमानसै- 
स्त्वां मुरारिह्रदयेश्वरीं भजे ॥ १४ ॥ 

सरसिजनिलये सरोजहस्ते 
धवलतमांशुकगन्धमाल्यशोभे । 
भगवति हरिवल्लभे मनोज्ञे 
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥ 

दिग्धस्तिभिः कनककुम्भमुखावसृष्ट- 
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् । 
प्रातर्नमामि जगतां जननीमशेष- 
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥ 

कमले कमलाक्षवल्लभे 
त्वं करुणापूरतरङ्गितैरपाङ्गैः । 
अवलोकय मामकिञ्चनानां 
प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥ 

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं 
त्रयीमयीं त्रिभुवनमातरं रमाम् । 
गुणाधिका गुरुतरभाग्यभागिनो 
भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥ 

॥  इति श्रीमच्छङ्कराचार्यविरचितं कनकधारास्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment